अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् !
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् !!
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् !
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् !!
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ !
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् !!
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् !
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् !!
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् !
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् !!
गुंजा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा !
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् !!
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् !
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् !!
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा !
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् !!
0 comments:
Post a Comment
Thanks for your valuable feedback. Please be continue over my blog.
आपकी बहुमूल्य प्रतिक्रिया के लिए धन्यवाद। कृपया मेरे ब्लॉग पर आना जारी रखें।